Tuesday, November 23, 2010

RAGHUVANSHAM 8th SARGA

र.वं. ८.१अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिव:।वसुधामपि     हस्तगामिनीमकरोदिन्दुमतीमिवापराम्॥१॥
र.वं. ८.२दुरितैरपि  कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत्।तदुपस्थितमग्रहीदजः    पितुराज्ञेति  न भोगतृष्णया ॥२॥
र.वं. ८.३अनुभूय वसिष्ठसम्भृतैः  सलिलैस्तेन सहाभिषेचनम्।विशदोच्छ्वसितेन  मेदनी  कथयामास कृतार्थतामिव ॥३॥
र.वं. ८.४  बभूव  दुरासदः  परैर्गुरुणाऽथर्वविदा कृतक्रियः। पवाग्निसमागमो  ह्ययं    सहितं  ब्रह्म यदस्त्रतेजसा ॥४॥
र.वं. ८.५रघुमेव  निवृत्तयौवनं  तममन्यन्त नवेश्वरं  प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे  सकलान्गुणानपि॥५॥
र.वं. ८.६अधिकं शुशुभे शुभंयुना द्वितयेन द्व्यमेव सङ्गतम्।  पदमृद्धमजेन पैतृकं विनयेनास्य नवं   च यौवनम्  ॥६॥
र.वं. ८.७सदयं बुभुजे महाभुजः सहसोद्वेगमियं  व्रजेदिति ।  अचिरोपनतां स    मेदिनीं नवपाणिग्रहणां वधूमिव  ॥७॥ 
र.वं. ८.८अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत्। उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना  क्वचित्॥८॥
र.वं. ८.९न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव।   स पुरस्कृतमध्यक्रमो   नमयामास  नृपाननुद्धरन् ॥९॥
र.वं. ८.१०अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया। विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत्॥१०॥
र.वं. ८.११गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः  । पदवीं तरुवल्कवाससां    प्रयताः संयमिनां प्रपेदिरे ॥११॥
र.वं. ८.१२तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं    प्रणिपत्य  पादयोरपरित्यागमयाचतात्मनः ॥१२॥
र.वं. ८.१३रघुरश्रुमुख्स्य तस्य तत्कृतवानीप्सितमात्मजप्रियः। न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥१३॥
र.वं. ८.१४स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्वहिः।समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥१४॥
र.वं. ८.१५प्रशमस्थितपूर्वपार्थिवं     कुलमभ्युद्यतनूतनेश्वरम् ।नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत्  ॥१५॥
र.वं. ८.१६यतिपार्थिवलिङ्गधरिणौ ददृशाते रघुराघवौ जनैः।    अपवर्गमहोदयार्थ्योर्भुवमंशाविव      धर्मयोर्गतौ  ॥१६॥
र.वं. ८.१७अजिताधिगमाय  मन्त्रिभिर्युयुजे  नीतिविशारदैरजः।अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः  ॥१७॥
र.वं. ८.१८नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे  युवा।परिचेतुमुपांशु धारणां कुअसपूतं   प्रवयास्तु   विष्टरम् ॥१८॥
र.वं. ८.१९अन्यत्प्रभुशक्तिसम्पदा वशमेको नृपतैननन्तरान् ।अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान्   ॥१९॥
र.वं. ८.२०अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात्।इतरो दहने स्वकर्मणां विवृते ज्ञानमयेन  वह्निना  ॥२०॥
र.वं. ८.२१पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम्।रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्ठकञ्चनः   ॥२१॥
र.वं. ८.२२न नवः प्रभुराफलोदयात्स्थिरकर्मा विरराम कर्मणः । न च् योगविधेर्नवेतरः स्थिरधीरापरमात्मदर्शनात्। ॥२२॥
र.वं. ८.२३इति शत्रुषु चेन्द्रियेषु च पतिषिद्धप्रसरेषु जाग्रतौ  ।प्रसितावुदयापवर्गयोरुभयीं   सिद्धिमुभाववापतुः     ॥२३॥
र.वं. ८.२४अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः।तमसः परमापदव्ययं पुरुषं योगसमाधिना  रघुः   ॥२४॥
र.वं. ८.२५श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः।विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ॥२५॥
र.वं. ८.२६अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित्।नहि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः॥२६॥
र.वं. ८.२७स परार्ध्यागतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत्   ॥२७॥
र.वं. ८.२८क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्रयपौरुषम्। प्रथमा  बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम्    ॥२८॥
र.वं. ८.२९दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥२९॥
र.वं. ८.३०ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः॥३०॥
र.वं. ८.३१बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम्। वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥३१॥
र.वं. ८.३२स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजा।नगरोपवने शचीसखो मरुतां पालयितेव नन्दने  ॥३२॥
र.वं. ८.३३अथ रोधिसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम्।उपवीणयितुं ययौ रवेरुदयावृतिपथेन नारदः ॥३३॥
र.वं. ८.३४कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम्।अहरत् किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥३४॥
र.वं. ८.३५भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः।ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम्॥३५॥
र.वं. ८.३६अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम्।नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितम्॥३६॥
र.वं. ८.३७क्षणमात्रसखीं सुजातयोः स्तयोस्तामविलोक्य विह्वला।निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी॥३७॥
र.वं. ८.३८वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत्।ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम्॥३८॥
र.वं. ८.३९उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः। विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः॥३९॥
र.वं. ८.४०नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।प्रतिकारविधानमायुषःसति शेषे हि फलाय कल्पते॥४०॥
र.वं. ८.४१प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्वविप्लवात्।स निनाय नितान्तवत्सलःपरिगृह्योचितमङ्कमङ्गनाम्॥४१॥
र.वं. ८.४२पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया।समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः॥४२॥
र.वं. ८.४३विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्।अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥४३॥
र.वं. ८.४४कुसुमान्यपि गात्रसङ्गमात्प्रभवन्त्यायुरपोहितुं यदि।न भविष्यसि हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः॥४४॥
र.वं. ८.४५अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः।हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता॥४५॥
र.वं. ८.४६स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम्।विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया॥४६॥
र.वं. ८.४७अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा।यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता॥४७॥
र.वं. ८.४८कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि।कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥४८॥
र.वं. ८.४९ध्रुवमस्मि शठः शुचिस्मिते ! विदितः कैतववत्सलस्तव।परलोकमसन्निवृत्तये यदनापृच्छय गताऽसि मामितः॥४९॥
र.वं. ८.५०दयितां यदि तावदन्वगाद्विनिवृतं किमिदं तया विना ।सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम्॥५०॥
र.वं. ८.५१सुरतश्रमसम्भृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते।अथ चास्मिता त्वमात्मना धिगिमां देहभृतामसारताम्॥५१॥
र.वं. ८.५२मनसाऽपि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्।ननु शब्दपत्तिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः॥५२॥
र.वं. ८.५३कुसुमोखचितान् वलीभृतश्चलयन् भृङ्गरुचस्तवालकान्।करभोरु! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः॥५३॥
र.वं. ८.५४तदपोहितुमर्हसि प्रिये! प्रतिबोधेन विषादमाशु मे ।ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः॥५४॥
र.वं. ८.५५इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम्॥५५॥
र.वं. ८.५६श्शिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम्।इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥५६॥
र.वं. ८.५७नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम्।तदिदं वषहिष्यते कथ् वद वामोरु! चिताधिरोहणम्॥५७॥
र.वं. ८.५८इयमप्रतिबोधशायिनीं रसना त्वां प्रथमा रहःसखी।गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते॥५८॥
र.वं. ८.५९कलमन्यभृतासु भाषितं  कलहंसीषु मदालसं गतम्।पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः॥५९॥
र.वं. ८.६०त्रिदिवोत्सुकयाऽप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया।विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः॥६०॥
र.वं. ८.६१मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ।अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥६१॥
र.वं. ८.६२कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति।अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्॥६२॥
र.वं. ८.६३स्मरतेव ससब्दनूपुरं चरणानुग्रहमन्यदुर्लभम्।अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि! शोच्यसे॥६३॥
र.वं. ८.६४त्व निःश्वसितानुकारिभिर्बकुलैरर्धचित्तां समं मया।असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते॥६४॥
र.वं. ८.६५समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥६५॥
र.वं. ८.६६धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः।गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे।।६६॥
र.वं. ८.६७गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्॥६७॥
र.वं. ८.६८मदिराक्षि ! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे।अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्॥६८॥
र.वं. ८.६९विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्।अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः॥६९॥
र.वं. ८.७०विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।अकरोत्पृथिवीरुहानपि स्रुतसाखारसबाष्पदूषितान्॥७०॥
र.वं. ८.७१अथ तस्य कथञ्चिदङ्कतः स्वजनस्तामपनीय सुन्दरीम्।विससर्ज  तदन्त्यमण्डनामनलायागुरुचन्दनैधसे॥७१॥
र.वं. ८.७२प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात्।न चकार शरीरमग्निसात् सह देव्या न तु जीविताशया॥७२॥
र.वं. ८.७३अथ तेन दशाहतः परे गुणशेषामुपद्दिश्य भामिनीम्।विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः॥७३॥
र.वं. ८.७४स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः।परिवाहमिवावलोकयत् स्वशुचः पौरवधूमुखाश्रुषु॥७४॥
र.वं. ८.७५अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः।अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत्॥७५॥
र.वं. ८.७६असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम्।न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम्॥७६॥
र.वं. ८.७७मयि तस्य सुवृत्त! वर्तते लगुसन्देशपदा सरस्वती।श्रृणु विश्रुतसत्वसार!तां हृदि चैनामुपधातुमर्हसि॥७७॥
र.वं. ८.७८पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञनमयेन पस्यति॥७८॥
र.वं. ८.७९चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा।प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुरङ्गनाम्॥७९॥
र.वं. ८.८०स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम्।अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि॥८०॥
र.वं. ८.८१भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे।इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात्॥८१॥
र.वं. ८.८२क्रथकैशिकवंशसम्भवा तव भूत्वा महिषी चिराय सा।उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम्॥८२॥
र.वं. ८.८३तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता।वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥८३॥
र.वं. ८.८४उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्वया।मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम्॥८४॥
र.वं. ८.८५रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते।परलोकजुषां स्वकर्मभिर्गतयो  भिन्नपथा हि देहिनाम्॥८५॥
र.वं. ८.८६अपशोकमनाः कुटुम्बिनीमनुग्रृह्णीष्व निवापदत्तिभिः।स्वजनाशु किलातिसन्ततं दहति प्रेतमिति प्रचक्षते॥८६॥
र.वं. ८.८७मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ॥८७॥
र.वं. ८.८८अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम्।स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम्॥८८॥
र.वं. ८.८९स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा।विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम्॥८९॥
र.वं. ८.९०न पृथग्जवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि।द्रुमसानुमतां किमन्तरमं यदि वायौ द्वितयेऽपि ते चलाः॥९०॥
र.वं. ८.९१स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम्।तदलब्धपदम् शोकघने प्रतियातमिवान्तिकमस्य गुरोः॥९१॥
र.वं. ८.९२तेनाष्टौ परिगमिताः समाः कथञ्चिद्वलत्वादवितथसूनृतेन सूनोः।सादृश्यप्रतिकृतिदर्शनैह् प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥९२॥
र.वं. ८.९३तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलम् बिभेद ।प्राणान्तहेतुमपितं भिषजामसाध्यं लाभं प्रयानुगमने त्वरया स मेने ॥९३॥
र.वं. ८.९४सम्यग्विनीतमथ वर्महरं कुमारमाद्दिश्य रक्षणविधौ विधिवत्प्रजानाम्।रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव॥९४॥
र.वं. ८.९५तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।पूर्वाकाराधिकतरुचा सङ्गतः कान्तयाऽसौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥९५॥